|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.197. अध्यायः 197
Mahabharata - Drona Parva - Chapter Topics
कुरुसेनाहरवश्रवणभीतेन युधिष्ठिरेण पलायितसेनाप्रतिनिवर्तकप्रश्ने अर्जुनेन तत्कथनपूर्वकं द्रोणवधोपेक्षणादात्मोपालम्भः॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
सञ्जय उवाच। 7-197-0x(4781)(54226)
प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे प्रभो।
प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान्॥ 7-197-1(54227)
चचाल पृथिवी चापि चुक्षुभे च महोदधिः।
प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः॥ 7-197-2(54228)
शिखराणि व्यशीर्यन्त गिरीणां तत्र भारत।
अपसव्यं मृगाश्चैव पाण्डुसेनां प्रचक्रिरे॥ 7-197-3(54229)
तमसा तावकीर्यन्त सूर्यश्च कलुषोऽभवत्।
सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत्॥ 7-197-4(54230)
देवदानवगन्धर्वास्त्रस्तास्त्वासन्विशाम्पते।
कथङ्खथाऽभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत्॥ 7-197-5(54231)
व्यथिताः सर्वराजानस्त्रस्ताश्चासन्विशाम्पते।
तद्दृष्ट्वा घोररूपं वै द्रौणेरस्त्रं भयावहम्॥ 7-197-6(54232)
धृतराष्ट्र उवाच। 7-197-7x(4782)
निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे।
भृशं शोकाभितप्तेन पितुर्वधममृष्यता॥ 7-197-7(54233)
कुरूनापततो दृष्ट्वा धृष्टद्मुम्नस्य रक्षणे।
को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय॥ 7-197-8(54234)
सञ्जय उवाच। 7-197-9x(4783)
प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः।
पुनश्च तुमुलं शब्दं श्रुत्वाऽर्जुनमथाब्रवीत्॥ 7-197-9(54235)
युधिष्ठिर उवाच। 7-197-10x(4784)
आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे।
निहते वज्रहस्तेन यथा वृत्रे महासुरे॥ 7-197-10(54236)
नाशंसन्तो जयं युद्धे दीनात्मानो धनञ्जय।
आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो रणात्॥ 7-197-11(54237)
केचिद्वान्तै रथैस्तूर्णं निहतैः पाष्णियन्तृभिः।
विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः॥ 7-197-12(54238)
भग्ननीडैराकुलाश्वैः प्रारुह्यान्यान्विचेतसः।
भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथान्॥ 7-197-13(54239)
भग्नाक्षयुगचक्रैश्च व्याकृष्यन्त समन्ततः।
रथान्विशीर्णानुत्सृज्य पद्भिः केचिच्च विद्रुताः॥ 7-197-14(54240)
हयपृष्ठगताश्चान्ये कृष्यन्तेऽर्धच्युतासनाः।
गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः॥ 7-197-15(54241)
शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश।
विशस्त्रकवचनाश्चान्ये वाहनेभ्यः क्षितिं गताः॥ 7-197-16(54242)
सञ्छिन्ना नेमिभिश्चैव मृदिताश्च हयद्विपैः।
क्रोशन्तस्तात पुत्रेति पलायन्ते परे भयात्॥ 7-197-17(54243)
नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः।
पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान्॥ 7-197-18(54244)
जलेन क्लेदयन्त्यन्ये विमुच्य कवचनान्यपि।
`पलायनपराश्चान्ये योधाः शतसहस्रशः'॥ 7-197-19(54245)
अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम्।
पुनरावर्तितं केन यदि जानासि शंस मे॥ 7-197-20(54246)
हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम्।
रथनेमिस्वनैश्चात्र विमिश्रः श्रूयते महान्॥ 7-197-21(54247)
एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे।
मुमुर्मुहुरुदीर्यन्ते कम्पयन्त्यपि मामकान्॥ 7-197-22(54248)
य एष तुमुलः शब्दः श्रूयते रोमहर्षणः।
सेन्द्रानप्येष लोकांस्त्रीन्ग्रसेदिति मतिर्मम॥ 7-197-23(54249)
मन्ये वज्रधरस्यैष निनादो भैरवस्वनः।
द्रोणे हते कौरवार्यं व्यक्तमभ्येति वासवः॥ 7-197-24(54250)
प्रहृष्टरोमकूपाः स्मः संविग्नरथकुञ्जराः।
धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम्॥ 7-197-25(54251)
क एष कौरवान्दीर्णानवस्थाप्य महारथः।
निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा॥ 7-197-26(54252)
अर्जुन उवाच। 7-197-27x(4785)
उद्यम्यात्मानमुग्राय कर्मणे वीर्यमास्थिताः।
धमन्ति कौरवाः शङ्खान्यस्य वीर्यं समाश्रिताः॥ 7-197-27(54253)
यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते।
धार्तराष्ट्रानवस्थाप्य क एष नदतीति हि॥ 7-197-28(54254)
हीमन्तं तं महाबाहुं मत्तद्विरदगामिनम्।
`इन्द्रविष्मुसमं वीर्ये कोपेऽन्तकमिव स्थितम्॥ 7-197-29(54255)
बृहस्पतिसमं बुद्ध्या नीतिमन्तं महारथम्'।
आख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम्॥ 7-197-30(54256)
यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम्।
ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति॥ 7-197-31(54257)
जातमात्रेण वीरेण येनोच्चैः श्रवसा यथा।
हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः॥ 7-197-32(54258)
तच्छ्रुत्वान्तर्हितं भूतं नाम तस्याकरोत्तदा।
अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव॥ 7-197-33(54259)
यो ह्यनाथ इवाक्रम्य पार्षतेन हतस्तथा।
कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः॥ 7-197-34(54260)
गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत्।
तन्न जातुं क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः॥
`स हि तेनैव नः सर्वान्क्षपयेदिति मे मतिः'॥ 7-197-35(54261)
उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात्।
धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः॥ 7-197-36(54262)
चिरं स्थास्यति चाकीर्तिस्त्रैलोक्ये सचराचरे।
रामे वालिवधाद्यद्वदेवं द्रोणे निपातिते॥ 7-197-37(54263)
सर्वधर्मोपपन्नोऽयं स मे शिष्यश्च पाण्डवः।
नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि॥ 7-197-38(54264)
स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम्।
आचार्य उक्तो भवता हतः कुञ्जर इत्युत॥ 7-197-39(54265)
ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः।
आसीत्सुविह्वलो राजन्यथा दृष्टस्त्वया विभुः॥ 7-197-40(54266)
स तु शोकसमाविष्टो विमुखः पुत्रवत्सलः।
शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः॥ 7-197-41(54267)
न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान्।
रक्षत्विदानीं सामात्यो यदि शक्तोसि पार्षतम्॥ 7-197-42(54268)
ग्रस्तमाचार्य पुत्रेण क्रुद्धेन हतबन्धुना।
सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम्॥ 7-197-43(54269)
सौहार्दं सर्वभूतेषु यः करोत्यतिमानुषः।
सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे॥ 7-197-44(54270)
विक्रोशमाने हि मयि भृशमाचार्यगृद्विनि।
अपाकीर्य स्वयं धर्मं शिप्येण निहतो गुरुः॥ 7-197-45(54271)
यदा गतं वयो भूयः शिष्टमल्पतरं च नः।
तस्येदानीं विरोधोऽयमधर्मोऽयं कृतो महान्॥ 7-197-46(54272)
पितेव नित्यं सौहार्दात्पितेव हि च धर्मतः।
सोऽल्पकालस्य राज्यस्य कारमाद्वातितो गुरुः॥ 7-197-47(54273)
धृतराष्ट्रेण भीष्माय द्रोणाय च विशाम्पते।
विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः॥ 7-197-48(54274)
सम्प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः।
अब्रवीत्सततं पुत्रान्मामेवाभ्यधिकं गुरुः॥ 7-197-49(54275)
अवेक्षमाणस्त्वां मां च न्यस्तास्त्रश्चाहवे हतः।
न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः॥ 7-197-50(54276)
तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः।
कृतो ह्यनार्यैरस्माभीर राज्यार्थे लुब्धबुद्धिभिः॥ 7-197-51(54277)
अहो बत महत्पापं कृतं कर्म सुदारुणम्।
यद्राज्यसुखलोभेन द्रोणोऽयं साधुघातितः॥ 7-197-52(54278)
पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः।
त्यजेत्सर्वं मम प्रेम्णा जानात्येवं हि मे गुरुः॥ 7-197-53(54279)
स मया राज्यकामेन हन्यमानो ह्युपेक्षितः।
तस्मादर्वाक्शिरा राजन्प्राप्तोऽस्मि नरकं प्रभो॥ 7-197-54(54280)
ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं महामुनिम्।
घातयित्वाऽद्य राज्यार्थे मृतं श्रेयो न जीवितम्॥ ॥ 7-197-55(54281)
इति श्रीमन्महाभारते द्रोणपर्वणि नारायणास्त्रमोक्षपर्वणि पञ्चदशदिवसयुद्धे सप्तनवत्यधिकशततमोऽध्यायः॥ 197 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-197-1 सपृषतः सजलबिन्दुः। अनभ्रे अप्रावृषिकाले॥ 5-197-5 कथङ्कथा कथं कर्तव्यं कथं कर्तव्यमित्येवंशब्दः॥ 5-197-8 रक्षणे मन्त्रः क आसीदिति सम्बन्धः॥ 5-197-30 व्याघ्रास्यमुग्रकर्माणमिति झ.पाठः॥ 5-197-31 यस्मिन्निति दशशतामेत्यनेन सर्वगोधनं ददाविति ज्ञेयम्। अन्यथा एकधेन्वर्थं द्रुपदं प्रति द्रोणगमनस्यासम्भवः। यद्वा भाविनीं सम्पदमभिलक्ष्यैतद्दानं द्रष्टव्यम्। पुत्रोत्पत्तिकाले तस्य निर्धनत्वोक्तेः॥ 5-197-39 सत्यकञ्जुकं सत्याभासमनृतम्॥ 5-197-53 वासविरर्जुनः॥ 5-197-197 सप्तनवत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|